विष्णु सहस्रनाम हिन्दी PDF
सम्पूर्ण विष्णु सहस्रनाम हिन्दी में अर्थ सहित पढ़ें और मुफ्त PDF डाउनलोड करें।
🌐 हिन्दी ▾
विष्णु सहस्रनाम, सम्पूर्ण पाठ अर्थ सहित
किसी भी पंक्ति पर माउस ले जाएँ और उसका अर्थ देखें।
किसी भी पंक्ति पर टैप करें और उसका अर्थ देखें।
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम्।विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये॥
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे।नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः॥
अविकाराय शुद्धाय नित्याय परमात्मने।सदैकरूपरूपाय विष्णवे सर्वजिष्णवे॥
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात्।विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे॥
ॐ नमो विष्णवे प्रभविष्णवे।
श्रीवैशम्पायन उवाच।श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः।युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत॥
युधिष्ठिर उवाच।किमेकं दैवतं लोके किं वाप्येकं परायणम्।स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम्॥
को धर्मः सर्वधर्माणां भवतः परमो मतः।किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात्॥
भीष्म उवाच।जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम्।स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः॥
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम्।ध्यायन् स्तुवन्नमस्यंश्च यजमानस्तमेव च॥
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम्।लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत्॥
ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम्।लोकनाथं महद्भूतं सर्वभूतभवोद्भवम्॥
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः।यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा॥
परमं यो महत्तेजः परमं यो महत्तपः।परमं यो महद्ब्रह्म परमं यः परायणम्॥
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्।दैवतं देवतानां च भूतानां योऽव्ययः पिता॥
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे।यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये॥
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते।विष्णोर्नामसहस्रं मे शृणु पापभयापहम्॥
यानि नामानि गौणानि विख्यातानि महात्मनः।ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये॥
ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः।छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः॥
अमृतांशूद्भवो बीजं शक्तिर्देवकीनन्दनः।त्रिसामा हृदयं तस्य शान्त्यर्थे विनियुज्यते॥
विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम्।अनेकरूपदैत्यान्तं नमामि पुरुषोत्तमम्॥
क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकतेर्मौक्तिकानांमालाक्लृप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः।शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूषवर्षैःआनन्दी नः पुनीयादरिनलिनगदाशङ्खपाणिर्मुकुन्दः॥
भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्रसूर्यौ च नेत्रेकर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः।अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैःचित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि॥
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशंविश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्।लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यंवन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥
मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम्।पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम्॥
सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम्।सहारवक्षःस्थलशोभिकौस्तुभं नमामि विष्णुं शिरसा चतुर्भुजम्॥
छायायां पारिजातस्य हेमसिंहासनोपरिआसीनमम्बुदश्यामायताक्षमलङ्कृतम्।चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कितवक्षसम्रुक्मिणीसत्यभामाभ्यां सहितं कृष्णमाश्रये॥
ॐ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः।भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः 1
पूतात्मा परमात्मा च मुक्तानां परमा गतिः।अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च 2
योगो योगविदां नेता प्रधानपुरुषेश्वरः।नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः 3
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः।सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः 4
स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः।अनादिनिधनो धाता विधाता धातुरुत्तमः 5
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः।विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः 6
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः।प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् 7
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः।हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः 8
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः।अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् 9
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः।अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः 10
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः।वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः 11
वसुर्वसुमनाः सत्यः समात्मा संमितः समः।अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः 12
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः।अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः 13
सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः।वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः 14
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः।चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः 15
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः।अनघो विजयो जेता विश्वयोनिः पुनर्वसुः 16
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः।अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः 17
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः।अतीन्द्रियो महामायो महोत्साहो महाबलः 18
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः।अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् 19
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः।अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः 20
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः।हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः 21
अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः।अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा 22
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः।निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः 23
अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः।सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् 24
आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः।अहः संवर्तको वह्निरनिलो धरणीधरः 25
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः।सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः 26
असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः।सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः 27
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः।वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः 28
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः।नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः 29
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः।ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः 30
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः।औषधं जगतः सेतुः सत्यधर्मपराक्रमः 31
भूतभव्यभवन्नाथः पवनः पावनोऽनलः।कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः 32
युगादिकृद्युगावर्तो नैकमायो महाशनः।अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् 33
इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः।क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः 34
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः।अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः 35
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः।वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः 36
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः।अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः 37
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत्।महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः 38
अतुलः शरभो भीमः समयज्ञो हविर्हरिः।सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः 39
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः।महीधरो महाभागो वेगवानमिताशनः 40
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः।करणं कारणं कर्ता विकर्ता गहनो गुहः 41
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः।परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः 42
रामो विरामो विरजो मार्गो नेयो नयोऽनयः।वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः 43
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः।हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः 44
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः।उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः 45
विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययम्।अर्थोऽनर्थो महाकोशो महाभोगो महाधनः 46
अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः।नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः 47
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः।सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् 48
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत्।मनोहरो जितक्रोधो वीरबाहुर्विदारणः 49
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्।वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः 50
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्।अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः 51
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः।आदिदेवो महादेवो देवेशो देवभृद्गुरुः 52
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः।शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः 53
सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः।विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः 54
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः।अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः 55
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः।आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः 56
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः।त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् 57
महावराहो गोविन्दः सुषेणः कनकाङ्गदी।गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः 58
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः।वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः 59
भगवान् भगहानन्दी वनमाली हलायुधः।आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः 60
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः।दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः 61
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक्।संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् 62
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः।गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः 63
अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः।श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः 64
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः।श्रीधरः श्रीकरः श्रेयः श्रीमांल्लोकत्रयाश्रयः 65
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः।विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः 66
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः।भूशयो भूषणो भूतिर्विशोकः शोकनाशनः 67
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः।अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः 68
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः।त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः 69
कामदेवः कामपालः कामी कान्तः कृतागमः।अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः 70
ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः।ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः 71
महाक्रमो महाकर्मा महातेजा महोरगः।महाक्रतुर्महायज्वा महायज्ञो महाहविः 72
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतः स्तोता रणप्रियः।पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः 73
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः।वसुप्रदो वासुदेवो वसुर्वसुमना हविः 74
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः।शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः 75
भूतावासो वासुदेवः सर्वासुनिलयोऽनलः।दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः 76
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्।अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः 77
एको नैकः सवः कः किं यत्तत्पदमनुत्तमम्।लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः 78
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी।वीरहा विषमः शून्यो घृताशीरचलश्चलः 79
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक्।सुमेधा मेधजो धन्यः सत्यमेधा धराधरः 80
तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः।प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः 81
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः।चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् 82
समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः।दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा 83
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः।इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः 84
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः।अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी 85
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः।महाहृदो महागर्तो महाभूतो महानिधिः 86
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः।अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः 87
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः।न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः 88
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः।अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः 89
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्।अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः 90
भारभृत्कथितो योगी योगीशः सर्वकामदः।आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः 91
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः।अपराजितः सर्वसहो नियन्ता नियमो यमः 92
सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः।अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः 93
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः।रविर्विरोचनः सूर्यः सविता रविलोचनः 94
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः।अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः 95
सनात्सनातनतमः कपिलः कपिरव्ययः।स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः 96
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः।शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः 97
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः।विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः 98
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः।वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः 99
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः।चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः 100
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः।जननो जनजन्मादिर्भीमो भीमपराक्रमः 101
आधारनिलयोऽधाता पुष्पहासः प्रजागरः।ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः 102
प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः।तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः 103
भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः।यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः 104
यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः।यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च 105
आत्मयोनिः स्वयंजातो वैखानः सामगायनः।देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः 106
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः।रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः 107
श्री सर्वप्रहरणायुध ॐ नम इति।श्री सर्वप्रहरणायुध ॐ नम इति॥
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी।श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु॥श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु॥श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु॥
इतीदं कीर्तनीयस्य केशवस्य महात्मनः।नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम्॥
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्।नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः॥
वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत्।वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात्॥
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात्।कामानवाप्नुयात्कामी प्रजार्थी चाप्नुयात्प्रजाः॥
भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः।सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत्॥
यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च।अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम्॥
न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति।भवत्यरोगो द्युतिमान् बलरूपगुणान्वितः॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्।भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः॥
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम्।स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः॥
वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः।सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्॥
न वासुदेवभक्तानामशुभं विद्यते क्वचित्।जन्ममृत्युजराव्याधिभयं नैवोपजायते॥
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः।युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः॥
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः।भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे॥
द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः।वासुदेवस्य वीर्येण विधृतानि महात्मनः॥
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम्।जगद्वशे वर्ततेदं कृष्णस्य सचराचरम्॥
इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः।वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च॥
सर्वागमानामाचारः प्रथमं परिकल्पते।आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः॥
ऋषयः पितरो देवा महाभूतानि धातवः।जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम्॥
योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पादिकर्म च।वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात्॥
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः।त्रीन् लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः॥
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम्।पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च॥
विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम्।भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम्॥न ते यान्ति पराभवम् ॐ नम इति॥
अर्जुन उवाच।पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम।भक्तानामनुरक्तानां त्राता भव जनार्दन॥
श्रीभगवानुवाच।यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव।सोऽहमेकेन श्लोकेन स्तुत एव न संशयः॥स्तुत एव न संशयः॥
व्यास उवाच।वासनाद्वासुदेवस्य वासितं ते जगत्त्रयम्।सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते॥
पार्वत्युवाच।केनोपायेन लघुना विष्णोर्नामसहस्रकम्।पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो॥
ईश्वर उवाच।श्रीराम राम रामेति रमे रामे मनोरमे।सहस्रनाम तत्तुल्यं रामनाम वरानने॥श्रीराम नाम वरानन ॐ नम इति॥
ब्रह्मोवाच।नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे।सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः॥
सञ्जय उवाच।यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥
श्रीभगवानुवाच।अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम्।धर्मसंस्थापनार्थाय सम्भवामि युगे युगे॥
आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः।सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात्।करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि॥
इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यां अनुशासनपर्वणि मोक्षधर्मे भीष्मयुधिष्ठिरसंवादे श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम्॥
अर्थ और लाभ
विष्णु सहस्रनाम भगवान विष्णु के एक हजार नामों की स्तुति है। यह महाभारत के अनुशासन पर्व में आता है, जहाँ शरशय्या पर लेटे हुए भीष्म पितामह युधिष्ठिर के इस प्रश्न का उत्तर देते हैं कि समस्त प्राणियों का एक आश्रय कौन है और किसका जप करने से मनुष्य मुक्त होता है। भीष्म का उत्तर ही यह स्तोत्र है। आदि शंकराचार्य का इस पर लिखा भाष्य उनकी सर्वाधिक प्रसिद्ध रचनाओं में गिना जाता है।
सहस्रनाम का अर्थ है एक हजार नाम। यहाँ प्रत्येक नाम केवल संज्ञा नहीं, बल्कि एक गुण का वर्णन है। विश्वम् अर्थात जो स्वयं विश्व हैं, भूतकृत् अर्थात प्राणियों के रचयिता, अच्युत अर्थात जो अपने स्वरूप से कभी नहीं गिरते, शरणम् अर्थात शरण देने वाले, भयनाशन अर्थात भय का नाश करने वाले। इसलिए इसका पाठ केवल जप नहीं, एक चिन्तन भी है, जिसमें मन ईश्वर को समझने के एक हजार मार्गों से होकर गुजरता है।
हनुमान चालीसा जहाँ स्तुति है और बजरंग बाण जहाँ तत्काल सहायता की पुकार है, वहीं विष्णु सहस्रनाम एक शान्त स्मरण है। यहाँ भक्त कोई एक वस्तु नहीं माँगता, वह भगवान के सम्पूर्ण स्वरूप में मन लगाता है। यही कारण है कि फलश्रुति कहती है कि धर्म का इच्छुक धर्म पाता है, धन का इच्छुक धन पाता है और ज्ञान का साधक वेदान्त तक पहुँचता है।
परम्परा के अनुसार नियमित पाठ से माना जाता है:
- भय और चिन्ता से मुक्ति, फलश्रुति स्पष्ट कहती है, न भयं क्वचिदाप्नोति।
- रोग और संकट से राहत, रोगार्तो मुच्यते रोगात्, रोगी रोग से और बँधा हुआ बन्धन से मुक्त होता है।
- मन की शान्ति और स्पष्टता, भक्त में क्रोध, मात्सर्य और लोभ नहीं रहते।
- स्थिर समृद्धि, अचलां श्रियम्, चंचल नहीं बल्कि अचल लक्ष्मी।
- परिवार और घर की रक्षा, शनिवार और एकादशी को इसका पाठ विशेष रूप से किया जाता है।
- आध्यात्मिक उन्नति, चित्त की शुद्धि और अन्ततः सनातन पद की प्राप्ति।
सूचना: ये सब परम्परागत श्रद्धा पर आधारित मान्यताएँ हैं। किसी भी शारीरिक या मानसिक रोग के लिए योग्य चिकित्सक से परामर्श अवश्य लें।
पाठ कैसे करें
- समय: प्रातः स्नान के बाद का समय सर्वोत्तम माना जाता है। स्तोत्र स्वयं कहता है, भक्तिमान् यः सदोत्थाय शुचिः। सायंकाल का पाठ भी प्रचलित है।
- दिन: शनिवार और एकादशी विशेष रूप से शुभ माने जाते हैं। वैकुण्ठ एकादशी और कार्तिक मास का विशेष महत्त्व है।
- दिशा: स्वच्छ आसन पर पूर्व या उत्तर की ओर मुख करके विष्णु, नारायण, वेंकटेश अथवा श्रीकृष्ण के चित्र के सामने बैठें।
- तैयारी: दीप जलाएँ, तुलसी दल, चन्दन और पुष्प अर्पित करें। तुलसी भगवान विष्णु को विशेष प्रिय है।
- क्रम: पहले मंगलाचरण और ध्यान, फिर 107 श्लोक, उसके बाद फलश्रुति। अन्त में वनमाली गदी शार्ङ्गी श्लोक तीन बार कहा जाता है।
- अवधि: सामान्य गति से सम्पूर्ण पाठ में लगभग तीस से पैंतीस मिनट लगते हैं। समय कम हो तो परम्परा स्वयं उपाय बताती है, शिव कहते हैं कि राम नाम ही सहस्र नाम के तुल्य है।
- भाव: शुद्ध उच्चारण और स्थिर मन गति से अधिक महत्त्वपूर्ण हैं। अर्थ समझते हुए धीरे पढ़ना शीघ्र समाप्त करने से कहीं अधिक फलदायी है।
- आरम्भ करने वालों के लिए: कुछ सप्ताह तक प्रतिदिन सुनें, फिर साथ में बोलना आरम्भ करें। पहले ध्यान श्लोक सीखें, फिर दस दस श्लोक जोड़ते जाएँ।
- बच्चों के लिए: शुक्लाम्बरधरं विष्णुं और शान्ताकारं भुजगशयनं से आरम्भ कराएँ, ये छोटे हैं और उच्चारण के लिए सरल हैं।
- कोई प्रतिबन्ध नहीं: फलश्रुति स्वयं सभी वर्णों का नाम लेकर उनका फल बताती है, यह स्तोत्र सदा सबके लिए खुला रहा है।
अक्सर पूछे जाने वाले प्रश्न
क्या विष्णु सहस्रनाम हिन्दी PDF मुफ्त डाउनलोड कर सकते हैं?
हाँ। इस पृष्ठ पर दिया गया डाउनलोड बटन पूर्णतः निःशुल्क है। इसमें सम्पूर्ण पाठ है, मंगलाचरण, ध्यान श्लोक, 107 श्लोक और फलश्रुति, जिसे आप छाप सकते हैं या मोबाइल में रख सकते हैं।
विष्णु सहस्रनाम की रचना किसने की?
इसे कुरुक्षेत्र में भीष्म पितामह ने युधिष्ठिर को सुनाया था और वेदव्यास ने महाभारत के अनुशासन पर्व में इसे लिपिबद्ध किया। विनियोग में व्यास को ऋषि, अनुष्टुप को छन्द और श्रीकृष्ण को देवता कहा गया है।
सम्पूर्ण पाठ में कितना समय लगता है?
सामान्य गति से लगभग तीस से पैंतीस मिनट। केवल 107 श्लोक पढ़ने में लगभग बीस से पच्चीस मिनट लगते हैं।
क्या सचमुच ठीक एक हजार नाम हैं?
स्तोत्र में एक हजार नाम हैं, परन्तु कुछ नाम एक से अधिक बार आते हैं, जैसे विष्णु, वासुदेव, शिव और पद्मनाभ। आदि शंकराचार्य सहित परम्परागत भाष्यकार प्रत्येक पुनरावृत्ति का प्रसंग के अनुसार भिन्न अर्थ करते हैं, इसीलिए संख्या एक हजार ही मानी जाती है।
यहाँ 107 श्लोक क्यों हैं जबकि प्रायः 108 कहा जाता है?
स्तोत्र में नामों के 107 क्रमांकित श्लोक हैं, उसके बाद श्री सर्वप्रहरणायुध ॐ नम इति पंक्ति आती है। कुछ प्रकाशित संस्करण इसी पंक्ति को 108वाँ श्लोक गिन लेते हैं, इसी से यह प्रचलित संख्या आई है। पाठ दोनों में एक ही है।
पाठ का सबसे उत्तम समय कौन सा है?
प्रातः स्नान के बाद का समय सर्वोत्तम माना जाता है। शनिवार और एकादशी विशेष रूप से शुभ हैं, तथा वैकुण्ठ एकादशी पर इसका पाठ बहुत व्यापक रूप से होता है।
क्या स्त्रियाँ और बच्चे इसका पाठ कर सकते हैं?
हाँ, कोई प्रतिबन्ध नहीं है। फलश्रुति स्वयं प्रत्येक वर्ग के लिए फल बताती है और अनेक घरों में बच्चों को यह सिखाया जाता है। आरम्भ ध्यान श्लोकों से कराएँ, वे छोटे और सरल हैं।
विष्णु सहस्रनाम और ललिता सहस्रनाम में क्या अन्तर है?
दोनों एक हजार नामों के स्तोत्र हैं परन्तु भिन्न देवताओं के। विष्णु सहस्रनाम भगवान विष्णु की स्तुति है और महाभारत से आता है, जबकि ललिता सहस्रनाम जगदम्बा की स्तुति है और ब्रह्माण्ड पुराण से आता है।
विष्णु सहस्रनाम के सबसे प्रसिद्ध श्लोक कौन से हैं?
- शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
- शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम्।
- ॐ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः।
- श्रीराम राम रामेति रमे रामे मनोरमे।
- यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
क्या कोई छोटा उपाय भी है?
स्तोत्र स्वयं इसका उत्तर देता है। जब पार्वती सरल उपाय पूछती हैं तो शिव कहते हैं कि राम नाम का जप सहस्र नामों के तुल्य है, सहस्रनाम तत्तुल्यं रामनाम वरानने। इसी प्रकार श्रीकृष्ण अर्जुन से कहते हैं कि जो सहस्र नामों से स्तुति करना चाहता है, उसने एक श्लोक से ही स्तुति कर ली।
